Sukta 10.35
तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् । पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥
तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्य॑म् । पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
tán no devā yacchata supravācanáṃ chardír ādityāḥ subháraṃ nṛpāyyám | paśvé tokā́ya tanayā́ya jīváse svastí agníṃ samidhānám īmahe ||
O Gods, grant us that well-speaking utterance, that shelter of the Ādityas—easy to bear and fit to guard the inner kingdom. For our energies, for the child-soul and its growth, for the very power to live, we seek the kind auspiciousness by kindling Agni, the Divine Will, within us.
तत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒ऽप्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒ऽभर॑म् । नृ॒ऽपाय्य॑म् । पश्वे॑ । तो॒काय॑ । तन॑याय । जी॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥तत् । नः । देवाः । यच्छत । सुप्रवाचनम् । छर्दिः । आदित्याः । सुभरम् । नृपाय्यम् । पश्वे । तोकाय । तनयाय । जीवसे । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥tat | naḥ | devāḥ | yacchata | su-pravācanam | chardiḥ | ādityāḥ | su-bharam | nṛ-pāyyam | paśve | tokāya | tanayāya | jīvase | svasti | agnim | sam-idhānam | īmahe