Sukta 10.35
त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः । बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥
त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः । बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥
tá ādityā́ ā́ gatā sarvatā́taye vṛdhé no yajñám avatā sa-jóṣasaḥ | bṛ́haspátiṁ pū́ṣaṇam aśvínā bhágaṁ svastí agníṁ samidhānám īmahe ||
Come, O Ādityas, for our total wholeness; for our increase protect the sacrifice in one accord. (Bring also) Bṛhaspati, Pūṣan, the Aśvins, and Bhaga. For well-being we seek Agni who is being kindled within.
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥ते । आदित्याः । आ । गत । सर्वतातये । वृधे । नः । यज्ञम् । अवत । सजोषसः । बृहस्पतिम् । पूषणम् । अश्विना । भगम् । स्वस्ति । अग्निम् । सम्इधानम् । ईमहे ॥te | ādityāḥ | ā | gata | sarvatātaye | vṛdhe | naḥ | yajñam | avata | sa-joṣasaḥ | bṛhaspatim | pūṣaṇam | aśvinā | bhagam | svasti | agnim | sam-idhānam | īmahe