Sukta 10.30
तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति । मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥
तं सि॑न्धवो मत्स॒रमि॑न्द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति । म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं॑ वि॒चर॑न्त॒मुत्स॑म् ॥
táṃ síndhavo matsarám indra-pā́nam ū́rmiṃ prá heta yá ubhé íyarti | madá-cyutam auśā́naṃ nabhó-jāṃ pári tri-tántuṃ vi-cárantam ú́tsam ||
O rivers, send forth that intoxicating wave, drunk by Indra, which moves in both realms. Dripping with ecstasy, swift and forceful, born of the cloud, it ranges around the threefold thread—the fount in its wide coursing.
तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति । म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥तम् । सिन्धवः । मत्सरम् । इन्द्रपानम् । ऊर्मिम् । प्र । हेत । यः । उभे इति । इयर्ति । मदच्युतम् । औशानम् । नभःजाम् । परि । त्रितन्तुम् । विचरन्तम् । उत्सम् ॥tam | sindhavaḥ | matsaram | indra-pānam | ūrmim | pra | heta | yaḥ | ubhe iti | iyarti | mada-cyutam | auśānam | nabhaḥ-jām | pari | tri-tantum | vi-carantam | utsam