Sukta 10.30
आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः । ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः ॥
आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒: सयो॑नीः ॥
ā́varvṛ́tatīr adha nú dvi-dhā́rā goṣu-yúdho ná ni-yaváṃ cárantīḥ | ṛ́ṣe jánitrīr bhúvanasya pátnīr apó vandasva sa-vṛ́dhaḥ sa-yónīḥ ||
Now adore the Waters, O Seer—those that turn and return in their movement, flowing in a double stream; like fighters for the Light-cows they move towards the appointed goal. They are the Mothers that bring forth, the Spouses of the worlds; increase together, sharing one origin: bow to them within you.
आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः । ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥आवर्वृततीः । अध । नु । द्विधाराः । गोषुयुधः । न । नियवम् । चरन्तीः । ऋषे । जनित्रीः । भुवनस्य । पत्नीः । अपः । वन्दस्व । सवृधः । सयोनीः ॥āvarvṛtatīḥ | adha | nu | dvi-dhārāḥ | goṣu-yudhaḥ | na | ni-yavam | carantīḥ | ṛṣe | janitrīḥ | bhuvanasya | patnīḥ | apaḥ | vandasva | sa-vṛdhaḥ | sa-yonīḥ