Sukta 10.30
प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः । घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥
प्रास्मै॑ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो व॑: सिन्धवो॒ मध्व॒ उत्स॑: । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥
prā́ asmai hinota mádhumantam ū́rmiṃ gárbho yó vaḥ síndhavo mádhva ú́tsaḥ | ghṛtá-pṛṣṭham ī́ḍyam adhvaréṣv ā́po revatīḥ śṛṇutā́ hávaṃ me ||
Send forth for him the honeyed wave—the womb, O rivers, the spring of sweetness that is within you. O rich Waters, hear my call: in the sacrifices it is to be adored, the ghee-backed (shining) offering-force.
प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ । घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥प्र । अस्मै । हिनोत । मधुमन्तम् । ऊर्मिम् । गर्भः । यः । वः । सिन्धवः । मध्वः । उत्सः । घृतपृष्ठम् । ईड्यम् । अध्वरेषु । आपः । रेवतीः । शृणुत । हवम् । मे ॥pra | asmai | hinota | madhu-mantam | ūrmim | garbhaḥ | yaḥ | vaḥ | sindhavaḥ | madhvaḥ | utsaḥ | ghṛta-pṛṣṭham | īḍyam | adhvareṣu | āpaḥ | revatīḥ | śṛṇuta | havam | me