Sukta 10.30
यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् । तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥
यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् । तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥
yó vo vṛtā́bhyo ákṛṇod ū́ṃ lokáṃ yó vo mahyā́ abhíśaster ámuñcat | tásmā indrā́ya mádhumantam ū́rmiṃ devá-mādanaṃ prá hiṇotanāpaḥ ||
He who made for you a space out of the shut-in states, who released you from the great oppression—send forth for that Indra the honeyed wave, the divine rapture: O Waters, set it moving.
यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊँ॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् । तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः ॥यः । वः । वृताभ्यः । अकृणोत् । ऊँ इति । लोकम् । यः । वः । मह्याः । अभिशस्तेः । अमुञ्चत् । तस्मै । इन्द्राय । मधुमन्तम् । ऊर्मिम् । देवमादनम् । प्र । हिणोतन । आपः ॥yaḥ | vaḥ | vṛtābhyaḥ | akṛṇot | oṃ iti | lokam | yaḥ | vaḥ | mahyāḥ | abhi-śasteḥ | amuñcat | tasmai | indrāya | madhu-mantam | ūrmim | deva-mādanam | pra | hiṇotana | āpaḥ