Sukta 10.30
एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ । सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥
ए॒वेद्यूने॑ युव॒तयो॑ नमन्त॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥
evéd yū́ne yuvatáyo namanta yád īm uśánn uśatī́r éty áccha | sáṃ jānate mánasā sáṃ cikitre ’dhvaryávo dhiṣáṇā́paś ca devī́ḥ ||
Thus indeed the young maidens bow to the youth when, desiring, he approaches the desiring ones. In mind they come to one knowledge, to one understanding—O Adhvaryus—Dhiṣaṇā and the divine Waters.
ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒ष॒तीः । एति॑ । अच्छ॑ । सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥एव । इत् । यूने । युवतयः । नमन्त । यत् । ईम् । उशन् । उषतीः । एति । अच्छ । सम् । जानते । मनसा । सम् । चिकित्रे । अध्वर्यवः । धिषणा । आपः । च । देवीः ॥eva | it | yūne | yuvatayaḥ | namanta | yat | īm | uśan | uṣatīḥ | eti | accha | sam | jānate | manasā | sam | cikitre | adhvaryavaḥ | dhiṣaṇā | āpaḥ | ca | devīḥ