Sukta 10.30
याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः । ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥
याभि॒: सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्य॑: । ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सि॒ञ्चा ओष॑धीभिः पुनीतात् ॥
yā́bhiḥ sómo módte hárṣate ca kalyāṇī́bhir yuvatíbhir ná máryaḥ | tā́ adhvaryo apó ácchā páréhi yád āsiñcā́ oṣádhībhiḥ punītā́t ||
With those fair young maidens by whom Soma rejoices and exults like a lover—O Adhvaryu, go forth toward the Waters, when you will mix them in and purify them with the plants.
याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः । न । मर्यः॑ । ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥याभिः । सोमः । मोदते । हर्षते । च । कल्याणीभिः । युवतिभिः । न । मर्यः । ताः । अध्वर्यो इति । अपः । अच्छ । परा । इहि । यत् । आसिञ्चाः । ओषधीभिः । पुनीतात् ॥yābhiḥ | somaḥ | modate | harṣate | ca | kalyāṇībhiḥ | yuvati-bhiḥ | na | maryaḥ | tāḥ | adhvaryo iti | apaḥ | accha | parā | ihi | yat | āsiñcāḥ | oṣadhībhiḥ | punītāt