Sukta 10.30
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु । अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥
यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॒॑न्तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ । अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो॑ वावृ॒धे वी॒र्या॑य ॥
yó anidhmó dī́dayad apsv àntár yaṃ víprāsa ī́ḷate adhvaréṣu | apā́ṃ napān mádhumatīr apó dā yā́bhir índro vāvṛdhé vī́ryāya ||
He who, without fuel, shines within the waters—him the seers adore in the sacrifices. O Apām Napāt, give the honeyed waters by which Indra grows in heroic power.
यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ । अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥यः । अनिध्मः । दीदयत् । अप्सु । अन्तः । यम् । विप्रासः । ईळते । अध्वरेषु । अपाम् । नपात् । मधुमतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्याय ॥yaḥ | anidhmaḥ | dīdayat | ap-su | antaḥ | yam | viprāsaḥ | īḷate | adhvareṣu | apām | napāt | madhu-matīḥ | apaḥ | dāḥ | yābhiḥ | indraḥ | vavṛdhe | vīryāya