Sukta 10.30
अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् । स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥
अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥
ádhvaryavo ’pá itā samudrám apā́m napātaṃ havíṣā yajadhvam | sá vo dadad ū́rmim adyā́ supū́taṃ tásmai sómaṃ mádhumantaṃ sunota ||
O Adhvaryus, go to the ocean of the Waters; worship Apām Napāt with the offering. He will give you today the well-purified wave; for him press out the Soma rich with sweetness.
अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् । सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् । सः । वः । ददत् । ऊर्मिम् । अद्य । सुपूतम् । तस्मै । सोमम् । मधुमन्तम् । सुनोत ॥adhvaryavaḥ | apaḥ | ita | samudram | apām | napātam | haviṣā | yajadhvam | saḥ | vaḥ | dadat | ūrmim | adya | su-pūtam | tasmai | somam | madhu-mantam | sunota