Sukta 10.30
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः । अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥
अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥
ádhvaryavo haviṣmánto hí bhūtā́cchā́pa ít ośatī́r uśántaḥ | áva yā́ś caṣṭe aruṇáḥ suparṇás tám ā́ asyadhvam ū́rmim adyā́ suhástāḥ ||
O Adhvaryus, bearing the offering, become those who desire and go toward the Waters that yearn. Cast forth today, with skilful hands, that wave which the ruddy fair-winged one beholds from above.
अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ । अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥अध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः । अव । याः । चष्टे । अरुणः । सुपर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सुहस्ताः ॥adhvaryavaḥ | haviṣmantaḥ | hi | bhūta | accha | apaḥ | ita | uśatīḥ | uśantaḥ | ava | yāḥ | caṣte | aruṇaḥ | su-parṇaḥ | tam | ā | asyadhvam | ūrmim | adya | su-hastāḥ