Sukta 10.30
एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः । नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥
एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥
émā́ agman revatī́r jīvá-dhanyā́ adhvaryavaḥ sā́dayatā sakhāyaḥ | ní barhíṣi dhattana somyā́so ’pā́m náptrā saṃvidānā́sa enāḥ ||
These rich and life-giving Waters have come; O adhvaryus, seat them, friends. Place them upon the sacred grass, O Soma-workers—these in mutual accord, the Children of the Waters, ready for the offering.
आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ । नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥आ । इमाः । अग्मन् । रेवतीः । जीवधन्याः । अध्वर्यवः । सादयत । सखायः । नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्विदानासः । एनाः ॥ā | imāḥ | agman | revatīḥ | jīva-dhanyāḥ | adhvaryavaḥ | sādayata | sakhāyaḥ | ni | barhiṣi | dhattana | somyāsaḥ | apām | naptrā | sam-vidānāsaḥ | enāḥ