Sukta 10.30
प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि । अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥
प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तीः ॥
práti yád ā́po ádṛśram ā-yatī́r ghṛtáṃ payā́ṃsi bíbhratīr mádhūni | adhvaryúbhir mánasā saṃvidānā́ índrāya sómaṃ suṣútam bhárantīḥ ||
When the Waters are seen approaching—bearing ghee, milk-streams, and honeys—they come in conscious accord with the priests’ intent, bringing to Indra the Soma well pressed: the offering of clarified delight to the lord of luminous power.
प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि । अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥प्रति । यत् । आपः । अदृश्रम् । आयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि । अध्वर्युभिः । मनसा । सम्विदानाः । इन्द्राय । सोमम् । सुसुतम् । भरन्तीः ॥prati | yat | āpaḥ | adṛśram | āyatīḥ | ghṛtam | payāṃsi | bibhratīḥ | madhūni | adhvaryu-bhiḥ | manasā | sam-vidānāḥ | indrāya | somam | su-sutam | bharantīḥ