Sukta 10.30
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च । रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥
आपो॑ रेवती॒: क्षय॑था॒ हि वस्व॒: क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नी॒: सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥
ā́po revatī́ḥ kṣáyathā hí vásvaḥ krátuṃ ca bhadráṃ bibhṛthā́m ṛtáṃ ca | rāyáś ca sthá sva-apatyásya pátnīḥ sárasvatī tád gṛṇaté váyo dhāt ||
O Waters rich in plenitude, you indeed dwell as the treasures; you bear the auspicious will and you bear Ṛta. You are also the consorts of a noble progeny; may Sarasvatī place that vital power in the one who sings.
आ॒पः । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थाम् । ऋत॑म् । च॒ । रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथाम् । ऋतम् । च । रायः । च । स्थ । सुअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥āpaḥ | revatīḥ | kṣayatha | hi | vasvaḥ | kratum | ca | bhadram | bibhṛthām | ṛtam | ca | rāyaḥ | ca | stha | su-apatyasya | patnīḥ | sarasvatī | tat | gṛṇate | vayaḥ | dhāt