Sukta 10.28
शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् । बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥
श॒शः क्षु॒रं प्र॒त्यञ्चं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् । बृ॒हन्तं॑ चिदृह॒ते र॑न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥
śaśáḥ kṣuráṃ pratyañcáṃ jagā́rā́drim logéna vy àbhedam ārā́t | bṛhántam cid ṛhaté randhayāni váyad vatsó vṛṣabháṃ śūśuvā́naḥ ||
The hare has swallowed the razor turned back; with a clod it split the rock from afar. Even the vast I would make yield to the climber—like a calf growing strong upon the bull: so the small, when rightly trained, can master the hard.
श॒शः । क्षु॒रम् । प्र॒त्यञ्च॑म् । ज॒गा॒र॒ । अद्रि॑म् । लो॒गेन॑ । वि । अ॒भे॒द॒म् । आ॒रात् । बृ॒हन्त॑म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒या॒नि॒ । वय॑त् । व॒त्सः । वृ॒ष॒भम् । शूशु॑वानः ॥शशः । क्षुरम् । प्रत्यञ्चम् । जगार । अद्रिम् । लोगेन । वि । अभेदम् । आरात् । बृहन्तम् । चित् । ऋहते । रन्धयानि । वयत् । वत्सः । वृषभम् । शूशुवानः ॥śaśaḥ | kṣuram | pratyañcam | jagāra | adrim | logena | vi | abhedam | ārāt | bṛhantam | cit | ṛhate | randhayāni | vayat | vatsaḥ | vṛṣabham | śūśuvānaḥ