Sukta 10.28
सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः । निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥
सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः । नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥
suparṇá itthā nákham ā́ siṣāyā́varuddhaḥ paripádaṃ ná siṃháḥ | niruddháś cid mahiṣás tarṣyā́vān godhā́ tásmā ayátham karṣad etát ||
Even the high-winged power, when it sharpens its claw, if held down, circles its own track like a lion confined. Even the mighty Bull, though full of thirsting force, when obstructed cannot break free; therefore the ‘godhā’ drags this out of its right course—this is the sign of a wrongly driven movement in us.
सु॒ऽप॒र्णः । इ॒त्था । न॒खम् । आ । सि॒सा॒य॒ । अव॑ऽरुद्धः । प॒रि॒ऽपद॑म् । न । सिं॒हः । नि॒ऽरु॒द्धः । चि॒त् । म॒हि॒षः । त॒र्ष्याऽवा॑न् । गो॒धा । तस्मै॑ । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् ॥सुपर्णः । इत्था । नखम् । आ । सिसाय । अवरुद्धः । परिपदम् । न । सिंहः । निरुद्धः । चित् । महिषः । तर्ष्यावान् । गोधा । तस्मै । अयथम् । कर्षत् । एतत् ॥su-parṇaḥ | itthā | nakham | ā | sisāya | ava-ruddhaḥ | pari-padam | na | siṃhaḥ | ni-ruddhaḥ | cit | mahiṣaḥ | tarṣyāvān | godhā | tasmai | ayatham | karṣat | etat