Sukta 10.28
देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् । नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥
दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चन्तो॑ अ॒भि वि॒ड्भिरा॑यन् । नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हन्ति ॥
devā́sa ā́yan paraśū́m̐r abíbhran vánā vṛścántaḥ abhí viḍbhír ā́yan | ní su-drvaṃ dádhato vakṣaṇā́su yátrā kṛpī́ṭam ánu tád dahanti ||
The gods came bearing axes, cutting the forests; they advanced with the clans. They set the good-wood in the supports, where—following it—they burn away the creeping insect: so the powers clear what gnaws within.
दे॒वासः॑ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना॑ । वृ॒श्चन्तः॑ । अ॒भि । वि॒ट्ऽभिः । आ॒य॒न् । नि । सु॒ऽद्र्व॑म् । दध॑तः । व॒क्षणा॑सु । यत्र॑ । कृपी॑टम् । अनु॑ । तत् । द॒ह॒न्ति॒ ॥देवासः । आयन् । परशून् । अबिभ्रन् । वना । वृश्चन्तः । अभि । विट्भिः । आयन् । नि । सुद्र्वम् । दधतः । वक्षणासु । यत्र । कृपीटम् । अनु । तत् । दहन्ति ॥devāsaḥ | āyan | paraśūn | abibhran | vanā | vṛścantaḥ | abhi | viṭ-bhiḥ | āyan | ni | su-dram | dadhataḥ | vakṣaṇāsu | yatra | kṛpīṭam | anu | tat | dahanti