Sukta 10.28
एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः । वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥
ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिन्द्र दे॒वाः । वधीं॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वम् ॥
evā́ hí māṃ tavásaṃ jajñúr ugráṃ kárman-karman vṛ́ṣaṇam indra devā́ḥ | vadhī́ṃ vṛtráṃ vájreṇa mandasā́nó 'pá vrajáṃ mahinā́ dāśúṣe vam ||
Thus the gods have generated me strong and fierce, a bull of power in every act, O Indra. I slew Vṛtra with the thunderbolt in the ecstasy; with my might I opened the pen for the giver.
ए॒व । हि । माम् । त॒वस॑म् । ज॒ज्ञुः । उ॒ग्रम् । कर्म॑न्ऽकर्मन् । वृष॑णम् । इ॒न्द्र॒ । दे॒वाः । वधी॑म् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । अप॑ । व्र॒जम् । म॒हि॒ना । दा॒शुषे॑ । व॒म् ॥एव । हि । माम् । तवसम् । जज्ञुः । उग्रम् । कर्मन्कर्मन् । वृषणम् । इन्द्र । देवाः । वधीम् । वृत्रम् । वज्रेण । मन्दसानः । अप । व्रजम् । महिना । दाशुषे । वम् ॥eva | hi | mām | tavasam | jajñuḥ | ugram | karman-karman | vṛṣaṇam | indra | devāḥ | vadhīm | vṛtram | vajreṇa | mandasānaḥ | apa | vrajam | mahinā | dāśuṣe | vam