Sukta 10.28
कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् । त्वं नो विद्वाँ ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥
क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षाम् । त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥
kathā́ ta etád ahám ā́ ciketáṃ gṛ́tsasya pā́kas taváso manīṣā́m | tváṃ no vidvā́n ṛtuthā́ ví voco yám árdhaṃ te maghavan kṣemyā́ dhūḥ ||
How can I understand this—being only a learner—your mighty intention? You, the knower, tell it to us in the right season and order: what portion you have set, O bounteous one, for our secure dwelling in the path.
क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स॑स्य । पाकः॑ । त॒वसः॑ । म॒नी॒षाम् । त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ । यम् । अर्ध॑म् । ते॒ । म॒घ॒ऽव॒न् । क्षे॒म्या । धूः ॥कथा । ते । एतत् । अहम् । आ । चिकेतम् । गृत्सस्य । पाकः । तवसः । मनीषाम् । त्वम् । नः । विद्वान् । ऋतुथा । वि । वोचः । यम् । अर्धम् । ते । मघवन् । क्षेम्या । धूः ॥kathā | te | etat | aham | ā | ciketam | gṛtsasya | pākaḥ | tavasaḥ | manīṣām | tvam | naḥ | vidvān | ṛtu-thā | vi | vocaḥ | yam | ardham | te | magha-van | kṣemyā | dhūḥ