Sukta 10.28
अद्रिणा ते मन्दिन इन्द्र तूयान्त्सुन्वन्ति सोमान्पिबसि त्वमेषाम् । पचन्ति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥
अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया॑न्त्सु॒न्वन्ति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षाम् । पच॑न्ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥
ádrīṇā te mandína indra tū́yānt sunvánti sómān píbasi tvám eṣām | pácanti te vṛṣabhā́m̐ átsi téṣāṃ pṛkṣéṇa yán maghavan hūyámānaḥ ||
With the pressing-stone the gladdeners hasten and press the Soma for you, O Indra; you drink of it. They cook for you the strong foods; you partake of them, O bounteous one, when you are invoked with the offering-mixture.
अद्रि॑णा । ते॒ । म॒न्दिनः॑ । इ॒न्द्र॒ । तूया॑न् । सु॒न्वन्ति॑ । सोमा॑न् । पिब॑सि । त्वम् । ए॒षा॒म् । पच॑न्ति । ते॒ । वृ॒ष॒भान् । अत्सि॑ । तेषा॑म् । पृ॒क्षेण॑ । यत् । म॒घ॒ऽव॒न् । हू॒यमा॑नः ॥अद्रिणा । ते । मन्दिनः । इन्द्र । तूयान् । सुन्वन्ति । सोमान् । पिबसि । त्वम् । एषाम् । पचन्ति । ते । वृषभान् । अत्सि । तेषाम् । पृक्षेण । यत् । मघवन् । हूयमानः ॥adriṇā | te | mandinaḥ | indra | tūyān | sunvanti | somān | pibasi | tvam | eṣām | pacanti | te | vṛṣabhān | atsi | teṣām | pṛkṣeṇa | yat | magha-van | hūyamānaḥ