Sukta 10.28
स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः । विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
स रोरु॑वद्वृष॒भस्ति॒ग्मशृ॑ङ्गो॒ वर्ष्म॑न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः । विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥
sá rórūvad vṛṣabhás tigmá-śṛṅgo várṣman tasthau váriman ā́ pṛthivyā́ḥ | víśveṣv enaṃ vṛ́janeṣu pāmi yó mé kukṣī́ sutá-somaḥ pṛṇā́ti ||
Roaring, the bull with sharp horns has taken his stand in the wide expanse of the Earth. In all the clans I protect that one who fills my belly with the pressed Soma.
सः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥सः । रोरुवत् । वृषभः । तिग्मशृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः । विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतसोमः । पृणाति ॥saḥ | roruvat | vṛṣabhaḥ | tigma-śṛṅgaḥ | varṣman | tasthau | variman | ā | pṛthivyāḥ | viśveṣu | enam | vṛjaneṣu | pāmi | yaḥ | me | kukṣī iti | suta-somaḥ | pṛṇāti