Sukta 10.28
विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम । जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥
विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम । ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शित॒: पुन॒रस्तं॑ जगायात् ॥
viśvó hy ànyo arír ā́jagāma máméd áha śváśuro ná ā́ jagāma | jakṣīyā́d dhā́nā uta sómaṃ papīyā́t svā́śitaḥ púnar ástaṃ jagāyāt ||
Everyone else—the challenger—has come; but my own kin of the old order has not come. Let him eat the grains and drink the Soma; when he is well satisfied, let him go back again to his home-setting.
विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ । ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥विश्वः । हि । अन्यः । अरिः । आजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम । जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुआशितः । पुनः । अस्तम् । जगायात् ॥viśvaḥ | hi | anyaḥ | ariḥ | ājagāma | mama | it | aha | śvaśuraḥ | na | ā | jagāma | jakṣīyāt | dhānāḥ | uta | somam | papīyāt | su-āśitaḥ | punaḥ | astam | jagāyāt