Sukta 10.28
तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः । सिम उक्ष्णोऽवसृष्टाँ अदन्ति स्वयं बलानि तन्वः शृणानाः ॥
तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मण॑: प्रति॒पीय॒न्त्यन्नै॑: । सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दन्ति स्व॒यं बला॑नि त॒न्व॑: शृणा॒नाः ॥
tébhyo godhā́ ayátham karṣad etád ye bráhmaṇaḥ pratipīyánty annáiḥ | simá ukṣṇó ’vasṛṣṭā́m̐ adanti svayáṃ bálāni tanváḥ śṛṇānā́ḥ ||
For such as these, the creeping power drags the movement awry—those who ‘drink back’ the sacred force with food-offerings. They eat, as it were, the released draught of the bull; themselves they break their own bodily powers, shattering the strength of the embodied being.
तेभ्यः॑ । गो॒धाः । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः॑ । प्र॒ति॒ऽपीय॑न्ति । अन्नैः॑ । सि॒मः । उ॒क्ष्णः॑ । अ॒व॒ऽसृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला॑नि । त॒न्वः॑ । शृ॒णा॒नाः ॥तेभ्यः । गोधाः । अयथम् । कर्षत् । एतत् । ये । ब्रह्मणः । प्रतिपीयन्ति । अन्नैः । सिमः । उक्ष्णः । अवसृष्टान् । अदन्ति । स्वयम् । बलानि । तन्वः । शृणानाः ॥tebhyaḥ | godhāḥ | ayatham | karṣat | etat | ye | brahmaṇaḥ | prati-pīyanti | annaiḥ | simaḥ | ukṣṇaḥ | ava-sṛṣṭān | adanti | svayam | balāni | tanvaḥ | śṛṇānāḥ