Sukta 10.28
एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः । नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥
ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्व१॒॑: सोम॑ उ॒क्थैः । नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा॑न्दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥
eté śámībhiḥ suśámī abhūvann yé hinviré tanváḥ sóma ukthaíḥ | nṛvád vádann úpa no māhi vā́jān diví śrávo dadhiṣe nā́ma vīráḥ ||
These became well-harmonized by acts of pacifying mastery—those who drive their embodied being forward for Soma by the uttered hymns. Speaking with the manly word, come near to us; increase for us the plenitudes of force. In heaven you establish fame and the name of the hero—an enduring stature in the luminous worlds.
ए॒ते । शमी॑भिः । सु॒ऽशमी॑ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः॑ । सोमे॑ । उ॒क्थैः । नृ॒ऽवत् । वद॑न् । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । दि॒वि । श्रवः॑ । द॒धि॒षे॒ । नाम॑ । वी॒रः ॥एते । शमीभिः । सुशमी । अभूवन् । ये । हिन्विरे । तन्वः । सोमे । उक्थैः । नृवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥ete | śamībhiḥ | su-śamī | abhūvan | ye | hinvire | tanvaḥ | some | ukthaiḥ | nṛ-vat | vadan | upa | naḥ | māhi | vājān | divi | śravaḥ | dadhiṣe | nāma | vīraḥ