Sukta 10.26
मंसीमहि त्वा वयमस्माकं देव पूषन् । मतीनां च साधनं विप्राणां चाधवम् ॥
मं॒सी॒महि॑ त्वा व॒यम॒स्माकं॑ देव पूषन् । म॒ती॒नां च॒ साध॑नं॒ विप्रा॑णां चाध॒वम् ॥
maṃsīmahi tvā vayám asmā́kaṃ deva pūṣan | matīnā́ṃ ca sā́dhanam víprāṇāṃ cā́dhavam ||
We would form you in our thought, O Pūṣan divine, as ours—accomplisher of our inspirations and the pressing-force of the seers’ vision.
मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् । म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च । आ॒ऽध॒वम् ॥मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् । मतीनाम् । च । साधनम् । विप्राणाम् । च । आधवम् ॥maṃsīmahi | tvā | vayam | asmākam | deva | pūṣan | matīnām | ca | sādhanam | viprāṇām | ca | ādhavam