Sukta 10.26
स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा । अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
स वे॑द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा॑ । अ॒भि प्सुर॑: प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ॥
sa veda suṣṭutī́nām índur ná pūṣā́ vṛ́ṣā | abhí psúraḥ pruṣāyati vrájaṃ na ā́ pruṣāyati ||
He knows the right praises; as Indu, the illumining drop, he is like Pūṣan the Nourisher, a bull of force. He rains his shining abundance upon the seeker, and he rains it into our fold of gathered powers.
सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ । अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥सः । वेद । सुस्तुतीनाम् । इन्दुः । न । पूषा । वृषा । अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥saḥ | veda | su-stutīnām | induḥ | na | pūṣā | vṛṣā | abhi | psuraḥ | pruṣāyati | vrajam | naḥ | ā | pruṣāyati