Sukta 10.26
यस्य त्यन्महित्वं वाताप्यमयं जनः । विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥
यसस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जन॑: । विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥
yásya tyán mahi-tváṃ vātā́pyam ayáṃ jánaḥ | vípra ā́ vaṃsad dhītí-bhiś cikéta su-stutī́nām ||
He whose greatness is like the wind’s wide-moving force— this people draws near to him; the inspired seer comes by his illumined thoughts and becomes conscious of the right hymns of praise.
यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ । विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥यस्य । त्यत् । महित्वम् । वाताप्यम् । अयम् । जनः । विप्रः । आ । वंसत् । धीतिभिः । चिकेत । सुस्तुतीनाम् ॥yasya | tyat | mahi-tvam | vātāpyam | ayam | janaḥ | vipraḥ | ā | vaṃsat | dhīti-bhiḥ | ciketa | su-stutīnām