Sukta 10.26
प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः । प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥
प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युत॑: । प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥
prá hy ácchā manīṣā́ spārhā́ yánti ni-yútaḥ | prá dasrā́ niyúd-rathaḥ pūṣā́ aviṣṭu mā́hinaḥ ||
Forward indeed, toward the goal, the desirable inspirations go yoked and ordered. Forward move the wondrous powers with their yoked car; may Pūṣan, the mighty, lead us and guard the journey.
प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ । प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । नियुतः । प्र । दस्रा । नियुत्रथः । पूषा । अविष्टु । माहिनः ॥pra | hi | accha | manīṣāḥ | spārhāḥ | yanti | ni-yutaḥ | pra | dasrā | niyut-rathaḥ | pūṣā | aviṣṭu | māhinaḥ