Sukta 10.25
त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि । क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥
त्वं न॑: सोम सु॒क्रतु॑र्वयो॒धेया॑य जागृहि । क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे॑ द्रु॒हो न॑: पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
tváṃ naḥ soma su-krátur váyo-dhéyāya jā́gṛhi | kṣetrá-vit-taro mánuṣo ví vo máde drúho naḥ pā́hy áṃhaso vivákṣase ||
O Soma of good and effective will, wake in us for the sustaining increase of life. Knower of the field more than man, in thy ecstasy protect us from the deceiver and from anguish, and make our being grow into the right possession.
त्वम् । नः॒ । सो॒म॒ । सु॒ऽक्रतुः॑ । व॒यः॒ऽधेया॑य । जा॒गृ॒हि॒ । क्षे॒त्र॒वित्ऽत॑रः । मनु॑षः । वि । वः॒ । मदे॑ । द्रु॒हः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥त्वम् । नः । सोम । सुक्रतुः । वयःधेयाय । जागृहि । क्षेत्रवित्तरः । मनुषः । वि । वः । मदे । द्रुहः । नः । पाहि । अंहसः । विवक्षसे ॥tvam | naḥ | soma | su-kratuḥ | vayaḥ-dheyāya | jāgṛhi | kṣetravit-taraḥ | manuṣaḥ | vi | vaḥ | made | druhaḥ | naḥ | pāhi | aṃhasaḥ | vivakṣase