Sukta 10.25
तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे । गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥
तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे । गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥
táva tyé soma śákti-bhir níkāmāso vy-ṛ́ṇvire | gṛ́tsasya dhī́rās taváso ví vo máde vrajáṃ gó-mantam aśvínam vivákṣase ||
By thy powers, O Soma, the seekers of the true delight open themselves wide. The steadfast seers of the strong One— in thy ecstasy— make for us to grow the luminous fold rich in rays and steeds, the plenitude of ordered energies.
तव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः॑ । वि । ऋ॒ण्वि॒रे॒ । गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥तव । त्ये । सोम । शक्तिभिः । निकामासः । वि । ऋण्विरे । गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गोमन्तम् । अश्विनम् । विवक्षसे ॥tava | tye | soma | śakti-bhiḥ | ni-kāmāsaḥ | vi | ṛṇvire | gṛtsasya | dhīrāḥ | tavasaḥ | vi | vaḥ | made | vrajam | go--mantam | aśvinam | vivakṣase