Sukta 10.25
उत व्रतानि सोम ते प्राहं मिनामि पाक्या । अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥
उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या॑ । अधा॑ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे॑ मृ॒ळा नो॑ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ॥
utá vratā́ni soma te práhaṃ mināmi pā́kyā | ádhā pitéva sūnáve ví vo máde mṛḷā no abhí cid vadhā́d vívakṣase ||
Even your laws, O Soma, I transgress—through childishness. Then, like a father to his son, in your ecstasy be gracious to us; protect us even from the blow of punishment, as you will our growth.
उ॒त । व्र॒तानि॑ । सो॒म॒ । ते॒ । प्र । अ॒हम् । मि॒ना॒मि॒ । पा॒क्या॑ । अध॑ । पि॒ताऽइ॑व । सू॒नवे॑ । वि । वः॒ । मदे॑ । मृ॒ळ । नः॒ । अ॒भि । चि॒त् । व॒धात् । विव॑क्षसे ॥उत । व्रतानि । सोम । ते । प्र । अहम् । मिनामि । पाक्या । अध । पिताइव । सूनवे । वि । वः । मदे । मृळ । नः । अभि । चित् । वधात् । विवक्षसे ॥uta | vratāni | soma | te | pra | aham | mināmi | pākyā | adha | pitāiva | sūnave | vi | vaḥ | made | mṛḷa | naḥ | abhi | cit | vadhāt | vivakṣase