Sukta 10.25
हृदिस्पृशस्त आसते विश्वेषु सोम धामसु । अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥
हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे॑षु सोम॒ धाम॑सु । अधा॒ कामा॑ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ॥
hṛdi-spṛ́śas te āsate víśveṣu soma dhā́masu | ádhā kā́mā imé máma ví vo máde ví tiṣṭhante vasū-yávo vívakṣase ||
Your touches that reach the heart abide in all the seats, O Soma. Then these desires of mine stand wide awake in your ecstasy—seekers of the true wealth—as you will their increase.
हृ॒दि॒ऽस्पृशः॑ । ते॒ । आ॒स॒ते॒ । विश्वे॑षु । सो॒म॒ । धाम॑ऽसु । अध॑ । कामाः॑ । इ॒मे । मम॑ । वि । वः॒ । मदे॑ । वि । ति॒ष्ठ॒न्ते॒ । व॒सु॒ऽयवः॑ । विव॑क्षसे ॥हृदिस्पृशः । ते । आसते । विश्वेषु । सोम । धामसु । अध । कामाः । इमे । मम । वि । वः । मदे । वि । तिष्ठन्ते । वसुयवः । विवक्षसे ॥hṛdi-spṛśaḥ | te | āsate | viśveṣu | soma | dhāma-su | adha | kāmāḥ | ime | mama | vi | vaḥ | made | vi | tiṣṭhante | vasu-yavaḥ | vivakṣase