Sukta 10.25
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥
भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् । अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥
bhadráṃ no ápi vātaya máno dákṣam utá krátum | ádhā te sakhyé ándhasaḥ ví vo máde raṇán gā́vo ná yávase vívakṣase ||
Breathe into us the good: the mind, the power of skill, and the will of right intention. Then, in your friendship and in the delight of the Soma-essence, our energies rejoice like cows toward pasture, as you will our increase.
भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥bhadram | naḥ | api | vātaya | manaḥ | dakṣam | uta | kratum | adha | te | sakhye | andhasaḥ | vi | vaḥ | made | raṇan | gāvaḥ | na | yavase | vivakṣase