Sukta 10.24
विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः । नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥
विश्वे॑ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत॑न्त्योः । नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ॥
víśve devā́ akṛpanta samīcyór níṣ-patantyoḥ | nā́satyāv abruvan devā́ḥ púnar ā́ vahatā́d íti ||
All the gods were moved with concern as the two (powers) sprang forth from their union; and the gods said to the Nāsatyas: ‘Bring (it/them) back again.’
विश्वे॑ । दे॒वाः । अ॒कृ॒प॒न्त॒ । स॒म्ऽई॒च्योः । निः॒ऽपत॑न्त्योः । नास॑त्यौ । अ॒ब्रु॒व॒न् । दे॒वाः । पुनः॑ । आ । व॒ह॒ता॒त् । इति॑ ॥विश्वे । देवाः । अकृपन्त । सम्ईच्योः । निःपतन्त्योः । नासत्यौ । अब्रुवन् । देवाः । पुनः । आ । वहतात् । इति ॥viśve | devāḥ | akṛpanta | sam-īcyoḥ | niḥ-patantyoḥ | nāsatyau | abruvan | devāḥ | punaḥ | ā | vahatāt | iti