Sukta 10.24
मधुमन्मे परायणं मधुमत्पुनरायनम् । ता नो देवा देवतया युवं मधुमतस्कृतम् ॥
मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् । ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥
mádhu-man me parā́yaṇaṃ mádhu-mat púnar-ā́yanam | tā́ no devā devátayā yuváṃ mádhu-matas kṛtám ||
Let my going forth be full of sweetness, and my return also full of sweetness. Those two movements, O gods, by your divinity—make them for us, you two, wrought of honeyed delight.
मधु॑ऽमत् । मे॒ । प॒रा॒ऽअय॑णम् । मधु॑ऽमत् । पुनः॑ । आऽअय॑नम् । ता । नः॒ । दे॒वा॒ । दे॒वत॑या । यु॒वम् । मधु॑ऽमतः । कृ॒त॒म् ॥मधुमत् । मे । पराअयणम् । मधुमत् । पुनः । आअयनम् । ता । नः । देवा । देवतया । युवम् । मधुमतः । कृतम् ॥madhu-mat | me | parāyaṇam | madhu-mat | punaḥ | āyanam | tā | naḥ | devā | devatayā | yuvam | madhu-mataḥ | kṛtam