Sukta 10.24
युवं शक्रा मायाविना समीची निरमन्थतम् । विमदेन यदीळिता नासत्या निरमन्थतम् ॥
यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् । वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥
yuváṃ śakrā māyā-vínā samīcī́ nír amanthatam | vi-madéna yád īḷitā́ nā́satyā nír amanthatam ||
You two, O mighty ones, with the power of the wondrous skill, churned out the hidden (Soma) from the united (waters/essence). When you were invoked by Vimadá, O Nāsatyas, you churned it forth.
यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् । वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥युवम् । शक्रा । मायाविना । समीची इति सम्ईची । निः । अमन्थतम् । विमदेन । यत् । ईळिता । नासत्या । निःअमन्थतम् ॥yuvam | śakrā | māyāvinā | samīcī itisam-īcī | niḥ | amanthatam | vi-madena | yat | īḷitā | nāsatyā | nir- amanthatam