Sukta 10.24
यस्पतिर्वार्याणामसि रध्रस्य चोदिता । इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥
यस्पति॒र्वार्या॑णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता । इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे॑ द्वि॒षो न॑: पा॒ह्यंह॑सो॒ विव॑क्षसे ॥
yás patír vā́ryāṇām ási radhrásya coditā́ | índra stotṝṇām avitā́ ví vo máde dvíṣo naḥ pā́hy áṃhasaḥ vívakṣase ||
You are the lord of the choice boons and the impeller even of what is weak and broken. O Indra, protector of the singers, in your power-delight guard us from the hostile and from distress, for you will the increase of our being.
यः । पति॑म् । वार्या॑णाम् । असि॑ । र॒ध्रस्य॑ । चो॒दि॒ता । इन्द्र॑ । स्तो॒तॄ॒णाम् । अ॒वि॒ता । वि । वः॒ । मदे॑ । द्वि॒षः । नः॒ । पा॒हि॒ । अंह॑सः । विव॑क्षसे ॥यः । पतिम् । वार्याणाम् । असि । रध्रस्य । चोदिता । इन्द्र । स्तोतॄणाम् । अविता । वि । वः । मदे । द्विषः । नः । पाहि । अंहसः । विवक्षसे ॥yaḥ | patim | vāryāṇām | asi | radhrasya | coditā | indra | stotṝṇām | avitā | vi | vaḥ | made | dviṣaḥ | naḥ | pāhi | aṃhasaḥ | vivakṣase