Sukta 10.24
त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे । शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥
त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥
tvā́ṃ yajñébhir ukthaír úpa havyébhir īmahe | śacī́-pate śacī́nāṃ ví vo máde śréṣṭhaṃ no dhehi vā́ryaṃ vívakṣase ||
We draw near to you with sacrifices, with hymns, with offerings. O Lord of the Power (Śacī), in your ecstasy set in us the best and most choice plenitude, for you will it to grow.
त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ । शची॑ऽपते । श॒ची॒न॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे । शचीपते । शचीनम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥tvām | yajñebhiḥ | ukthaiḥ | upa | havyebhiḥ | īmahe | śacī-pate | śacīnam | vi | vaḥ | made | śreṣṭham | naḥ | dhehi | vāryam | vivakṣase