Sukta 10.20
कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् । हिरण्यरूपं जनिता जजान ॥
कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् । हिर॑ण्यरूपं॒ जनि॑ता जजान ॥
kṛṣṇáḥ śvetó’ruṣó yā́mo asya bradhná ṛ́jra utá śóṇo yáśasvān | híraṇyarūpaṃ jánitā jajāna ||
Black and white and tawny are his courses; brown and straight, and also red, full of glory. The Begetter has brought to birth the golden-formed power—Agni’s radiant manifestation in many hues.
कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् । हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् । हिरण्यरूपम् । जनिता । जजान ॥kṛṣṇaḥ | śvetaḥ | aruṣaḥ | yāmaḥ | asya | bradhnaḥ | ṛjraḥ | uta | śoṇaḥ | yaśasvān | hiraṇya-rūpam | janitā | jajāna