Sukta 10.20
एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः । गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥
ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषा॑: । गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभा॑: ॥
evā́ te agne vimadó manīṣā́m ūrjó napād amṛ́tebhíḥ sajóṣāḥ | gíra ā́ vakṣat sumatī́r iyāná íṣam ūrjáṃ sukṣitíṃ víśvam ā́bhāḥ ||
Thus, O Agni, Vimadá has brought to you the inspired thought—O Child of the plenitudes—together with the immortals in a single harmony. Moving forward, he has borne the words that carry the right-mindedness; he has brought for us the whole—impulse and sustaining force and a secure dwelling in the being.
ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ । गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः॑ । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥एव । ते । अग्ने । विमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सजोषाः । गिरः । आ । वक्षत् । सुमतीः । इयानः । इषम् । ऊर्जम् । सुक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥eva | te | agne | vi-madaḥ | manīṣām | ūrjaḥ | napāt | amṛtebhiḥ | sa-joṣāḥ | giraḥ | ā | vakṣat | su-matīḥ | iyānaḥ | iṣam | ūrjam | su-kṣitim | viśvam | ā | abhār ity abhāḥ