Sukta 10.20
यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य । अद्रेः सूनुमायुमाहुः ॥
य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य । अद्रे॑: सू॒नुमा॒युमा॑हुः ॥
yajñāsā́haṃ dúva iṣe’gníṃ pū́rvasya śévasyá | ádreḥ sūnúm ā́yum ā́huḥ ||
I seek the service of Agni, the conqueror in the sacrifice, the ancient auspicious one. They call him the son of the rock—Life (Āyu) itself—born from the firm foundation.
य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य । अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥यज्ञसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य । अद्रेः । सूनुम् । आयुम् । आहुः ॥yajña-saham | duvaḥ | iṣe | agnim | pūrvasya | śevasya | adreḥ | sūnum | āyum | āhuḥ