Sukta 10.20
जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे । मिन्वन्त्सद्म पुर एति ॥
जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे । मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥
júṣad dhavyā́ mā́nuṣasyordhvás tasthāv ṛ́bhvā yajñé | mínvantsádma purá eti ||
Delighting in the human offerings, he has stood upright, strong in the sacrifice; enlarging the home of the being, he goes in front—leading the march of the work.
जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे । मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे । मिन्वन् । सद्म । पुरः । एति ॥juṣat | havyā | mānuṣasya | ūrdhvaḥ | tasthau | ṛbhvā | yajñe | minvan | sadma | puraḥ | eti