Sukta 10.20
अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् । कविरभ्रं दीद्यानः ॥
अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् । क॒विर॒भ्रं दीद्या॑नः ॥
aryó viśā́ṃ gātúr eti prá yad ā́nāḍ divó ántān | kavír abhráṃ dī́dyānaḥ ||
He moves as the noble guide of the peoples’ paths; when he reaches out to the ends of heaven, the seer blazes—like a cloud lit from within—revealing the way.
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् । क॒विः । अ॒भ्रम् । दीद्या॑नः ॥अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् । कविः । अभ्रम् । दीद्यानः ॥aryaḥ | viśām | gātuḥ | eti | pra | yat | ānaṭ | divaḥ | antān | kaviḥ | abhram | dīdyānaḥ