Sukta 10.185
नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशंसः ॥
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः ॥
náhi téṣām amā́ cána nā́dhvasu vāraṇéṣu | ī́śe ripúr agha-śáṃsaḥ ||
For those upheld by these powers, no hostile will—neither near at hand nor on the difficult roads and obstructing passages—can rule; the evil-speaking adversary finds no sovereignty there.
न॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ । ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥नहि । तेषाम् । अमा । चन । न । अध्वसु । वारणेषु । ईशे । रिपुः । अघशंसः ॥nahi | teṣām | amā | cana | na | adhva-su | vāraṇeṣu | īśe | ripuḥ | agha-śaṃsaḥ