Sukta 10.169
याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद । या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्य॑: पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥
yā́ḥ sarū́pā vírūpā ékarūpā yā́sām agnír iṣṭyā́ nā́māni véda | yā́ aṅgírasaḥ tápasehá cakrúṣ tā́bhyaḥ parjánya máhi śárma yaccha ||
Those herbs that are alike in form, unlike in form, and of one essential form—whose names Agni knows by the rite—those that the Aṅgiras seers fashioned here by tapas: to them, O Parjanya, grant a great sheltering peace.
याः । सऽरू॑पाः । विऽरू॑पाः । एक॑ऽरूपाः । यासा॑म् । अ॒ग्निः । इष्ट्या॑ । नामा॑नि । वेद॑ । याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥याः । सरूपाः । विरूपाः । एकरूपाः । यासाम् । अग्निः । इष्ट्या । नामानि । वेद । याः । अङ्गिरसः । तपसा । इह । चक्रुः । ताभ्यः । पर्जन्य । महि । शर्म । यच्छ ॥yāḥ | sa-rūpāḥ | vi-rūpāḥ | eka-rūpāḥ | yāsām | agniḥ | iṣṭyā | nāmāni | veda | yāḥ | aṅgirasaḥ | tapasā | iha | cakruḥ | tābhyaḥ | parjanya | mahi | śarma | yaccha