Sukta 10.168
सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥
सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑: । ताभि॑: स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥
sáṁ prérate ánu vā́tasya viṣṭhā́ áinaṁ gacchanti sámanam ná yóṣāḥ | tā́bhiḥ sayúk sárathaṁ devá īyate ’sya víśvasya bhúvanasya rājā́ ||
Together the attendants are driven forth after Vāta; they go to meet him like maidens to an assembly. With them, yoked and in one chariot, the god moves—he, the king of all this world of becoming.
सम् । प्र । ई॒र॒ते॒ । अनु॑ । वात॑स्य । वि॒ऽस्थाः । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ । सम॑नम् । न । योषाः॑ । ताभिः॑ । स॒ऽयुक् । स॒ऽरथ॑म् । दे॒वः । ई॒य॒ते॒ । अ॒स्य । विश्व॑स्य । भुव॑नस्य । राजा॑ ॥सम् । प्र । ईरते । अनु । वातस्य । विस्थाः । आ । एनम् । गच्छन्ति । समनम् । न । योषाः । ताभिः । सयुक् । सरथम् । देवः । ईयते । अस्य । विश्वस्य । भुवनस्य । राजा ॥sam | pra | īrate | anu | vātasya | vi-sthāḥ | ā | enam | gacchanti | samanam | na | yoṣāḥ | tābhiḥ | sa-yuk | sa-ratham | devaḥ | īyate | asya | viśvasya | bhuvanasya | rājā