Sukta 10.168
वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः । दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥
वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोष॑: । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥
vā́tasya nú mahimā́naṁ ráthasya rujánn eti stanáyann asya ghóṣaḥ | divispṛ́g yā́ty aruṇā́ni kṛṇvánn utó eti pṛthivyā́ réṇum asyán ||
Now the greatness of Vāta’s chariot goes forth, breaking onward; its sound thunders. Touching the heaven, it moves, making the red lights; and it goes too, casting the dust of the earth—stirring the field of life into motion.
वात॑स्य । नु । म॒हि॒मान॑म् । रथ॑स्य । रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । घोषः॑ । दि॒वि॒ऽस्पृक् । या॒ति॒ । अ॒रु॒णानि॑ । कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृ॒थि॒व्या । रे॒णुम् । अस्य॑न् ॥वातस्य । नु । महिमानम् । रथस्य । रुजन् । एति । स्तनयन् । अस्य । घोषः । दिविस्पृक् । याति । अरुणानि । कृण्वन् । उतो इति । एति । पृथिव्या । रेणुम् । अस्यन् ॥vātasya | nu | mahimānam | rathasya | rujan | eti | stanayan | asya | ghoṣaḥ | di vi-spṛk | yāti | aruṇāni | kṛṇvan | uto iti | eti | pṛthivyā | reṇum | asyan