Sukta 10.162
यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते । प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
yás tvā bhrā́tā pátir bhūtvā́ jā́ro bhūtvā́ nípadyate | prajā́ṃ yás te jíghāṃsati tám itó nāśayāmasi ||
Whoever approaches you by disguise—becoming ‘brother’, becoming ‘husband’, becoming ‘lover’—and seeks to strike down your progeny, him from here we destroy.
यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते । प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । त्वा । भ्राता । पतिः । भूत्वा । जारः । भूत्वा । निपद्यते । प्रजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yaḥ | tvā | bhrātā | patiḥ | bhūtvā | jāraḥ | bhūtvā | ni-padyate | pra-jām | yaḥ | te | j ighāṃsati | tam | itaḥ | nāśayāmasi