Sukta 10.162
यस्त ऊरू विहरत्यन्तरा दम्पती शये । योनिं यो अन्तरारेळ्हि तमितो नाशयामसि ॥
यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑ । योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना॑शयामसि ॥
yás ta ūrū́ víharaty antarā́ dámpatī śáye | yóniṃ yó antarā́reḷhi tám itó nāśayāmasi ||
Whoever wanders between your thighs, lying between the wedded pair; whoever creeps within the womb from inside—him from here we destroy.
यः । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती । शये॑ । योनि॑म् । यः । अ॒न्तः । आ॒ऽरेळ्हि॑ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । ते । ऊरू इति । विहरति । अन्तरा । दम्पती इति दम्पती । शये । योनिम् । यः । अन्तः । आरेळ्हि । तम् । इतः । नाशयामसि ॥yaḥ | te | ūrū iti | vi-harati | antarā | dampatī itidam-patī | śaye | yonim | yaḥ | antaḥ | āreḷhi | tam | itaḥ | nāśayāmasi