Sukta 10.162
यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते । प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
yás tvā svápnena támasā mohayitvā́ nípadyate | prajā́ṃ yás te jíghāṃsati tám itó nāśayāmasi ||
Whoever, by dream and darkness, deluding you, approaches to strike down your progeny—him from here we destroy.
यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते । प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥यः । त्वा । स्वप्नेन । तमसा । मोहयित्वा । निपद्यते । प्रजाम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥yaḥ | tvā | svapnena | tamasā | mohayitvā | ni-padyate | pra-jām | yaḥ | te | ji ghāṃsati | tam | itaḥ | nāśayāmasi